________________
प्रकीर्णकमष्टादशं विवादपदम् । ३२६ राजा स्तेनेन गन्तव्यो मुक्तकेशेन धीमता। आचक्षाणेन तत् स्तेयमेवंकर्मास्मि शाधि माम् ॥१०४ अनेना भवति स्तेनः स्वकर्मप्रतिवेदनात् । राजानं तत् स्पृशेदेन उत्सृजन्तं सकिल्बिषम् ॥१०५ राजभि तदण्डारतु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥१०६ शासनाद् वापि मोक्षाद् वा स्तेनो मुच्येत किल्विषात् । अशासत् तमसौ राजा स्तेनस्याप्नोति किल्विषम् ॥१०७ गुरुरात्मवतां शारता राजा शास्ता दुरात्मनाम् । अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥१०८ अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् । ब्धष्टापाद्यं तु वैश्यस्य द्वात्रिंशत क्षत्रियस्य तु ॥१०६ ब्राह्मणस्य चतुष्षष्टिं मनुः स्वायम्भुवोऽब्रवीत् ॥११० शारीरश्वार्थदण्डश्च दण्डस्तु द्विविधः स्मृतः । शारीरो द्विविधः प्रोक्तो ह्यर्थदण्डस्त्वनेकधा ॥१११ काकण्यांदिस्त्वर्थदण्डः सर्वस्वान्तस्तथैव च । शारीरस्त्ववरोधादिजीवितान्तस्तथा स्मृतः ।।११२ काकण्यादिस्तु यो दण्डः स तु माषपरः स्मृतः । (कर्षा ? माषा)परा! यः प्रोक्तः कर्षापणपरस्तु सः ॥११३ कार्षापणापराधस्तु चतुष्कार्षापणोत्तरः । ब्धवरोऽटपरश्चान्यस्त्र्यवरो द्वादशोत्तरः ॥११४