SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ३२८ नारदीयमनुस्मृतिः । गरीयसि गरीयांसमगरीयसि वा पुनः । स्तेने निपातयेद् दण्डं न यथा प्रथमे तथा ॥ ६३ दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत् । त्रिषु वर्णेषु तानि स्युरक्षतो ब्राह्मणो ब्रजेत् ॥६४ उपस्थमुदरं जिह्वा हस्तौ पादौ च पश्चमम् । चक्षुर्नासा च कर्णौ च स्तनौ देहस्तथैव च ॥ ६५ अपराधं परिज्ञाय देशकालौ च तत्त्वतः । सारानुवन्धावालोच्य दण्डं दण्डयेषु पातयेत् ॥ ६६ न मित्रकारणाद् राज्ञो विपुलाद् वा धनागमात् । उत्स्रष्टव्याः साहसिकास्तस्करा लोकवश्वकाः ॥६७ यावानवध्यस्य वधे तावान् वध्यस्य मोक्षणे । भवत्यधर्मो नृपतेर्धर्मस्तु विनियच्छतः ॥६८ न जातु ब्राह्मणं हन्यात् सर्वपापेष्वपि स्थितम् । निर्वासं कारयेत् कामं समग्रधनमक्षतम् ॥ ६६ सर्वं वापि हरेद्र राजा चतुर्थं वावशेषयेत् । विप्रेभ्योऽनुस्मरन् धर्मं प्राजापत्यमिति स्थितिः || १०० ब्राह्मणस्यापराधेषु चतुर्ष्वङ्को विधीयते । गुरुतल्पे सुरापाने स्तेये ब्राह्मणहिंसने || १०१ गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । स्तेये तु श्वपदं कृत्वा शिखिपित्तन पूरयेत् ॥ १०२ बिशिराः पुरुषः कार्यों ललाटे ब्रह्मघातिनः । असम्भाष्यश्च कर्तव्यस्तन्मनोरनुशासनम् ॥१०३
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy