________________
प्रकीर्णकमष्टादशं विवादपदम् । गोरसेक्षुविकाराणां तथा लवणतैलयोः । . पक्कान्नानां कृतान्नानां मद्यानामामिषस्य च ॥८३ सर्वेषामल्पमूल्यानां मूल्यात् पञ्चगुणो दमः । तुलाधारिममेयाना : गणिमानां च सर्वशः ।।८४ एभ्यस्तूत्कृष्टमूल्यानां मूल्याद् दशगुणो दमः । धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः ।।८५ घृते त्वेकादशगुणः दण्डं दाप्योऽब्रवीन्मनुः । हिरण्यरजतादीनामुत्तमानां च वाससाम् ॥८६ रत्नानां चैव मुख्यानां शतादभ्यधिके वधः। पुरुषं हरतो वासो दण्डस्तूत्तमसाहसः ।।८७ सर्वस्वं स्त्री तु कन्यां तु हरतो वध एव च। चतुर्विंशा(त् प? वारः, पूर्वः परः षण्णवतिर्भवेत् ॥८८ शतानि पञ्च तु वरो मध्यमो द्विशतावरः। सहस्रं तूत्तमो शेयः परः पञ्चशतावरः ।।८६ त्रिविधः साहसेष्वेवं दण्ड उक्तः स्वयम्भुवा। , प्रथमे ग्रन्थिभेदानामङ्गुल्यङ्गुष्ठयोर्वधः ॥६० द्वितीये चैव यच्छेषं दण्डः पूर्वश्च साहसः। गोषु ब्राह्मणसंस्थासु स्थूरायाश्छेदनं भवेत् ॥६१ दासी तु हरतो नित्यमर्धपादावकर्तनम् । . येन येन यथाङ्गन स्तेनो नृषु विचष्टते । छत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम् ।।१२