________________
३२४
नारदीय मनुस्मृतिः। विदुर्यस्यैव देवत्वं राज्ञो ह्यमिततेजसः । तस्य हि प्रतिगृहन्तो न लिप्यन्ते कदाचन ।।५० लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौहुताशनः । हिरण्यं सपिरादित्य आपो राजा तथाष्टमः ॥५१ एतानि सततं पश्येन्नमस्येदर्चयेच्च तान् । प्रदक्षिणं च कुर्वीत तथाहायुन हीयते ।।५२ द्विविधास्तस्करा शेयाः परद्रव्यापहारिणः । प्रकाशाश्वाप्रकाशाश्च वान् विद्यादात्मवान् नृपः ॥५३ प्रकाशवञ्चकास्तत्र कूटमानतुलाश्रिताः । उत्कोदकाः सोपधिकाः कितवाः पण्ययोषितः ॥५४ प्रविरूपकराश्चैव मङ्गलादेशबृत्तयः ।। इत्येवमादयो झेयाः प्रकाशा लोकवञ्चकाः ॥५५ अप्रकाशास्तु विशेया बहिरभ्यन्तराश्रिताः। सुप्तान मत्तान् प्रमत्तांश्च मुष्णन्त्याक्रम्य चैव ये ॥५६ देशप्रामगृहघ्नाश्च पथिन्ना ग्रन्थिमोचकाः। इत्येवमादयो शेया अप्रकाशास्तु तस्कराः ॥५७ तान् विदित्वा सुनिपुणैश्वोरैरतत्कर्मकारिभिः । अनुसृत्य ग्रहीतव्या गूढः प्रणिहितैनरैः ।।५८ सभाप्रपापूपशालावेशमद्यान्नविक्रयाः । चतुष्पथाश्चैत्यवृक्षाः समाजप्रेक्षणानि च ॥५६ शून्यागाराण्यरण्यानि देवतायतनानि च। चारैर्विचेयान्येतानि चोरग्रहणतत्परैः ॥६०