SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३२३ ____ प्रकीर्णकमष्टादशं विवादपदम् । अर्थानां भूरिभावाच देयत्वाच महात्मनाम। . श्रेयान् प्रतिग्रहो राज्ञामन्येभ्यो ब्राह्मणाहते ॥३६ ब्राह्मगश्चैव राजा च द्वावप्येतो धृतव्रतौ । नैतयोरन्तरं किञ्चित् प्रजाधर्माभिरक्षणात् ॥४० धर्मज्ञस्य कृतज्ञस्य रक्षार्थ शासतोऽशुचीन् । मेध्यमेव धनं प्राहुस्तीक्ष्णस्यापि महीपतेः ।।४१ शुचीनामशुचीनां च सन्निपातो यथाम्भसाम् । स तत्र समतां याति तद्वद् राज्ञां धनागमः ।।४२ यदा चानौ स्थितं दीप्ते शुद्धिमाप्नोति काञ्चनम् । एवमेवागमाः सर्वे शुद्धिमायान्ति राजसु ॥४३ यदा च कश्चित् स्वं द्रव्यं ब्रामणेभ्यः प्रयच्छति । तद् राज्ञाप्यनुमन्तव्यमेष धर्मः सनातनः ॥४४ अन्यत्र कारादुचिताद् भूमेः षड्भागसंज्ञितात् । बलिः स तस्य विहितः प्रजापालनवेतनः ।।४५ .शक्यं तत् पुनरादातुं यदब्राह्मणसात्कृतम् । ब्राह्मणाय तु यद् दत्तं न तस्याहरणं पुनः॥४६ दानमध्ययनं यज्ञः कर्मास्योक्तं त्रिलक्षणम् । याजनाध्यापने वृत्तिस्तृतीयस्तु प्रतिग्रहः ॥४७ स्वकर्मणि द्विजस्तिष्ठन् वृत्तिमाहारयेत् कृताम् । नासद्यः प्रतिगृह्णीयाद् वर्णेभ्यो नियमे सति ॥४८ अशुचिर्वचनाद् यस्य शुचिर्भवति पूरुषः । शुचिश्चैवाशुचिः सद्यः कथं राजा न देवतम् ॥४६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy