________________
प्रकीर्णकमष्टादशं विवादपदम्। ३१६ कितवेष्वेव तिष्ठेयुः कितवाः संशयं प्रति । त एव तस्य द्रष्टारः स्युस्त एव च साक्षिणः ॥४ अशुद्धं कितवो नान्यमाश्रयेद् द्यूतमण्डलम् । प्रतिहन्यान्न सभिको दापयन्तं स्वमितः ॥५ कूटाक्षदेविनः पापान् निर्भजेद् द्यूतमण्डलात् । कण्ठेऽक्षमालामासज्ज्य स ह्येषां विनयः स्मृतः ॥६ इति द्यूतसमाह्वयाख्यं सप्तदशं विषादपदम् ॥
अथ प्रकीर्णकमष्टादशं विवादपदम् । प्रकीर्णके पुनझेया ब्यवहारा नृपाश्रयाः । राज्ञामासाप्रतीघातस्तत्कर्मकरणं तथा ॥१ पुरप्रधानसम्भेदः प्रकृतीनां तथैव च । पाषण्डनैगमश्रेणिगणधर्मविपर्ययाः ॥२ पितृपुत्रविवादश्च प्रायश्चित्तव्यतिक्रमः । प्रतिग्रहविलोपश्च कोप आश्रमिणामपि ॥३ वर्णसङ्करदोषश्च तद्वृत्तिनियमस्तथा। न दृष्टं यच्च पूर्वेषु तत्सर्व स्यात् प्रकीर्णके ॥४ राजा त्ववहितः सर्वानाश्रमान् परिपालयेत् । उपायैः शास्त्रविहितैश्चतुर्भिः प्रकृतस्तथा ॥५