________________
३१८
___ नारदीयमनुस्मृतिः। अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छेदयेन्नृपः। अवमूत्रयतः शिश्नमवशर्धयतो गुदम् ।।२५ केशेषु गृहतो हस्तौ छेदयेदविचारयन् । पादयो सिकायां वा प्रीवायां वृषणेषु च ।।२६ उपाक्रुश्य च राजानं वर्त्मनि स्वे व्यवस्थितम् । जिह्वाच्छदाद् भवेच्छुद्धिः सर्वस्वहरणेन वा ॥२७ राजनि प्रहरेद् यस्तु कृतागस्यपि दुर्मतिः। शूले तमनौ विपचेद् ब्रह्महत्याशताधिकम् ।।२८ पुत्रापराधे न पिता न श्ववान् शुनि दण्डभाक् । न मर्कटे .च तत्स्वामी तैरेव प्रहितो न चेत् ।।२९
इति वाग्दण्डपारुष्यं पञ्चदशं (षोडशं) च विवादपदम् ।।
अथ द्यूतसमाह्वयं सप्तदशं विवादपदम् । अक्षवर्धशलाकाद्यैर्देवनं जिलकारितम् । पणक्रीडा वयोभिश्च पदं द्यूतसमाह्वयम् ॥१ समिकः कारयेद् धूतं दद्याद् देयं च तत्कृतम् । दशकं तु शताद् वृद्धिस्तस्य स्याद् धूतकारिता ।।२ द्विरभ्यस्ताः पतन्त्यक्षा गेहे यस्याक्षदेविनः । जयं तस्यापरस्याहुः कितवस्य पराजयम् ॥३.