SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ वाग्दण्डपारुष्यं पञ्चदशं षोडशं च विवादपदम्। ३१७ शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति । वैश्योऽध्यधं शतं द्वे वा शूद्रस्तु वधमर्हति ॥१४ विप्रः पञ्चाशतं दण्ड्यः क्षत्रियस्याभिशंसने । वैश्यं चैवार्थपञ्चाशच्छुद्रं द्वादशको दमः ॥१५ समवर्णद्विजादीनां द्वादशैव व्यतिक्रमे । वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ॥१६ काणं वा यदि वा खामन्यं वापि तथाविधम् । तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणात् परम् ॥१७ न किल्बिषणापवदेच्छास्त्रतः कृतपावनम् । न राज्ञा धृतदण्डं च दण्डयेत् तव्यतिक्रमे ॥१८ लोकेऽस्मिन् द्वाववक्तव्यावदण्ड्यौ च प्रकीर्तितौ । ब्राह्मणश्चैव राजा च तो हीदं बिभृतो जंगत् ॥१९ पतितं पतितेत्युक्त्वा चोरं चोरेति वा पुनः । वचनात् तुल्यदोषः स्यान्मिथ्या द्विर्दोषभाग भवेत् ॥२० नामजातिग्रहं तेषामभिद्रोहेण कुर्वतः । निखेयोऽयोमयः शङ्खः शूद्रस्याष्टादशाङ्गुलः ॥२१ धर्मोपदेशं दर्पण द्विजानामस्य कुर्वतः । तप्तमासेचयेत् तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥२२ येनाङ्गनावरो वर्णो ब्राह्मणस्यापराध्नुयात् । तदङ्गमेवच्छत्तव्यमेवं शुद्धिमवाप्नुयात् ॥२३ सहासनमभिप्रप्सुरुत्कृष्टस्यापकृष्टजः । कटिदेशेवय निर्वास्यः स्फिग्देशं वास्य कर्तयेत् ॥२४
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy