SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३०८ मारदीयमनुस्मृतिः। ब्राह्मण्येकान्तरं वैश्यात् सूते वैदेहकं सुतम् । क्षत्तारं क्षत्रिया शूद्रात् पुत्रमेकान्तरं तथा ।।११६ व्यन्तरः प्रातिलोम्येन पापिष्ठः सङ्करे सति । चण्डालो जायते शूद्राद् ब्राह्मणी यत्र मुह्यति ॥११७ राज्ञा परीक्ष्यं न यथा जायते वर्णसङ्करः । तस्माद् राज्ञा विशेषेण त्रयी रक्ष्या तु सङ्करात् ।।११८ इति स्त्रीपुंसयोगो द्वादशं विवादपदम् ।। -*०* अथ दायविभागस्त्रयोदशं विवादपदम् । विभागोऽर्थस्य पित्र्यस्य पुत्रैर्वत्र प्रकल्प्यते । दायभाग इति प्रोक्तं व्यवहारपदं बुधैः ॥१ पितर्युपरते पुत्रा विभजेयुर्धनं पितुः । मातुर्दू हितरोऽभावे दुहितृणां तदन्वयः ॥२ मातुर्निवृत्ते रजसि प्रत्तासु भगिनीषु च । निरिष्टे वाप्यमरणे पितर्युपरतेऽस्पृहे ॥३। पितैव वा स्वयं पुत्रान् विभजेद् वयसि स्थितः । ज्येष्ठं श्रेष्ठविभागेन यथा वा स्वमतिर्भवेत् ॥४ बिभृयाद् वेच्छतः सर्वाज्येष्ठो भ्राता यथा पिता । भ्राता शक्तः कनिष्ठो वा शक्त्यपेक्षं कुले क्रिया ॥५
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy