________________
स्त्रीपुंसयोगो द्वादशं विवादपदम् । ३०७ आनुलोम्येन वर्णानां यजन्म स विधिः स्मृतः। प्रातिलोम्येन यजन्म स शेयो वर्णसङ्करः ॥१०५ अनन्तरः स्मृतः पुत्रः पुत्र एकान्तरस्तथा । द्वयन्तरश्चानुलोम्येन तथैव प्रतिलोमतः ॥१०६ उग्रः पारशवश्चैव निषादश्चानुलोमतः । उत्तमेभ्यस्त्रयस्त्रिभ्यः शूद्रापुत्राः प्रकीर्तिताः॥१०७ ब्राह्मण्यामपि चण्डालसूतवैदेहका अपि । अपरेभ्यस्त्रयस्त्रिभ्यो विशेयाः प्रतिलोमतः ॥१०८ अम्बष्ठो मागधश्चैव क्षत्ता च क्षत्रियासुताः । आनुलोम्येन तत्रैको द्वौ शेयौ प्रतिलोमतः ॥१०६ वैश्यापुत्रास्तु दोषन्तयवनायोगवा अपि । प्रातिलोम्येन तत्रैको द्वौ शेयावनुलोमजौ ॥११० सूताद्याः प्रतिलोमास्तु शेयावप्रतिलोमजौ। ससङ्कराः श्वपाकाद्यास्तेषां त्रिस्सप्तको (गु?ग)णः ॥१११ सवर्णो ब्राह्मणीपुत्रः क्षत्रियायामनन्तरः। अम्बष्ठोपौ तथा पुत्रावेवं क्षत्रियवैश्ययोः ।।११२ एकान्तरस्तु दोषन्तो वैश्यायां ब्राह्मणात् सुतः। शूद्रायां (ब्राह्मणा क्षत्रिया)त् तद्वनिषादो नाम जायते॥११३ शूद्रा पारशवं सूते ब्राह्मणाद् व्यन्तरं सुतम् । आनुलोम्येन वर्णानां पुत्रा एते प्रकीर्तिताः ॥११४ सूतश्च मागधश्वोभौ पुत्रावायोगवस्तथा। . प्रातिलोम्येन वर्णानां तद्वदेतेऽन्यनन्तराः ॥११५