________________
३०६
नारदीयमनुस्मृतिः। स्त्रीधनभ्रष्टसर्वस्वां गर्भविस्राविणीं तथा । भर्तुश्च वधमिच्छन्ती स्त्रियं निर्वासयेद् गृहात् ।।१४ अनर्थशीलां सततं तथैवाप्रियवादिनीम् । पूर्वाशिनी च या भर्तुः स्त्रियं निर्वासयेद् बुधः ॥१५ वन्ध्यां स्त्रीजननी निन्द्यां प्रतिकूलां च सर्वदा । कामं तां नाभिनन्देत कुर्वन्नेवं न दोषभाक् ।।६६ अनुरूपामवाग्दुष्टां दक्षां साध्वी प्रजावतीम् । यजन् भार्यामवस्थाप्यो राज्ञा दण्डेन भूयसा ।।६७ अज्ञातदोषादुष्टा या निर्गता नान्यमाश्रिता। बन्धुभिः सा नियोक्तव्या निबन्धुः स्वयमाश्रयेत् ।।६८ पत्यौ प्रबजिते नष्टे क्लीबेऽथ पतिते मृते। पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥६६ अष्टौ वर्षाण्युदीक्षेत ब्राह्मणं प्रोषितं पतिम् । अप्रसूता तु चत्वारि परतोऽन्यं समाश्रयेत् ॥१०० क्षत्रिया षट् समास्तिष्ठेदप्रसूता समात्रयम् । वैश्या प्रसूता चत्वारि द्वे समे अप्रजा वसेत् ॥१०१ न शूद्रायाः स्मृतः कालो नच धर्मव्यतिक्रमः । विशेषतोऽप्रसूतायाः संवत्सरपरा स्थितिः ॥१०२ अप्रवृत्तौ स्मृतो धर्म एष प्रोषितयोषिताम् । जीवति श्रूयमाणे तु स्यादेष द्विगुणो विधिः ॥१०३ प्रजाप्रवृत्तौ भूतानां सृष्टिरेषा प्रजापतेः।। अतोऽन्यथागमे स्त्रीणामेवं दोषो न विद्यते ॥१०४