SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ स्त्रीपुंसयोगो द्वादशं विवादपदम् । नीरजस्कामनिच्छन्ती वा पुत्रवती स्त्रियम् । न गच्छेत् गर्भिणी निन्द्यामनियुक्तां च बन्धुभिः ।।८३ अनियुक्ता तु या नारी देवराजनयेत् सुतम् । जारजातमरिक्थीयं तमाहुर्धर्मवादिनः ॥८४ तथानियुक्तो भार्यायां यवीयाम् ज्यायसो ब्रजेत् । यवीयसो वा यो ज्यायानुभौ तौ गुरुतल्पगौ ॥८५ कुले तश्वशेषे तु सन्तानाथं न कामतः । नियुक्तो गुरुभिर्गच्छद् भ्रातृ ? ता)भार्या यवीयसः ।।८६ ज्येष्ठभार्या कनिष्ठो वा गच्छेद् गुरुनियोगतः । कुलसन्तानरक्षा तु फलं समधिगच्छतः ॥८७ अविद्यमाने तु गुरौ राज्ञो वाच्यः कुलक्षयः । ततस्तद्वचनाद् गच्छेदनुशिष्यस्त्रियं च सः ॥८८ पूर्वोक्तनैव विधिना स्माता पुंसवने शुचिः। सकृद्वा गर्भाधानाद् वा कृते गर्ने स्नुषैव सा ॥८९ अतोऽन्यथा वर्तमानः पुमान् स्त्री वापि कामतः । विनेयौ सुभृशं राज्ञा किल्बिषी स्यादनिग्रहे ॥१० ईयोसूयासमुत्थे तु संरम्भे रागहेतुके । दम्पती विवदेयातां न ज्ञातिषु न राजनि ॥६१ अन्योन्यं त्यजतो गः स्यादन्योन्यविरुद्धयोः । स्त्रीपुंसयोर्नतूढाया व्यभिचारादृते त्रि(यः ? याः) ॥१२ व्यभिचारे स्त्रि(यो ? या) मौण्ड्यमधःशयनमेव च । कदन्नं च कुवासश्च कर्म चावस्करोञ्छनम् ।।६३ २०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy