________________
स्त्रीपुंसयोगो द्वादशं विवादपदम्। ३०१ आर्षश्चैवाथ दैवश्व गान्धर्वोऽथासुरस्तथा। राक्षसोऽनन्तरस्तस्मात् पैशाचश्चाष्टमोऽधमः ॥३६ सत्कृत्याहूय कन्यां तु ब्राह्मो दद्यात् स्वलकृताम् । सह धर्म चरेत्युक्त्वा प्राजापत्यो विधीयते ॥४० वनगोमिथुने दत्त्वा विवाहस्त्वार्ष उच्यते । अन्तवैद्यां तु दैवः स्यादृस्विजे कर्म कुर्वते ॥४१ इच्छन्तीमिच्छते प्राहुर्गान्धर्वो नाम पञ्चमः । विवाहस्त्वासुरो शेयः शुल्कसंव्यवहारतः ॥४२ प्रसग्रहरणादुक्तो विवाहो राक्षसः स्मृतः। सुप्तमत्तोपगमनात् पैशाचश्चाष्टमोऽधमः ॥४३ एषां तु धाश्चत्वारो ब्राह्माद्याः समुदाहृताः । साधारणः स्याद् गान्धर्वस्त्रयोऽधास्त्वतः परे ॥४४ परपूर्वाः त्रियस्त्वन्याः सप्त प्रोक्ता यथाक्रमम् । पुनभूखिविधा तासां स्वैरिणी तु चतुर्विधा ॥४५ कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता। पुनर्भूः प्रथमा सोक्ता पुनः संस्कारकर्मणा ॥४६ देशधर्मानवेक्ष्य स्त्री गुरुभिर्या प्रदीयते । उत्पन्नसाहसान्यस्मै सा द्वितीया प्रकीर्तिता ॥४७ असत्सु देवरेषु स्त्रो बान्धवैर्या प्रदीयते । सवर्णायासपिण्डाय सा तृतीया प्रकीर्तिता ॥४८ प्रसूता वाप्रसूता वा पत्यावेव तु जीवति । कामात् समाश्रयेदन्यं स्वैरिणी प्रथमा तु सा ॥४६