________________
स्त्रीपुंसयोगो द्वादर्श विवादपदम् । २६४ शालीनस्यापि धृष्टत्रीसंयोगाद् भज्यते ध्वजः । तं हीनबेषमत्तस्त्रीबालान्धाभिरुपक्रमेत् ॥१७ अन्यस्यां यो मनुष्यः स्यादमनुष्यः स्वयोषिति । लभेत सान्यं भर्तारमेतत् कार्य प्रजापतेः ॥१८ अपत्यार्थ स्त्रियः सृष्टाः स्त्री क्षेत्रं बीजिनः प्रजाः । क्षेत्रं बीजवते देयं नाबीजी क्षेत्रमर्हति ॥१६ पिता दद्यात् स्वयं कन्या भ्राता वानुमते पितुः । मातामहो मातुलश्च सकुल्या बान्धवास्तथा ॥२० माताभावे तु सर्वेषां प्रकृतौ यदि वर्तते । तस्यामप्रकृतिस्थायां दद्युः कन्यां सजातयः ।।२१ यदा तु नैव कश्चित् स्यात् कन्या राजानमात्रजेत् । अनुज्ञया वरं तस्य प्रतीत्य वरयेत् स्वयम् ।।२२ सवर्णमनुरूपं च कुलरूपवय श्रुतैः । सह धर्म चरेत् तेन पुत्रांश्चोलादयेत् ततः ।।२३ प्रतिगृह्य च यः कन्यां नरो देशान्तरं ब्रजेत् । त्रीनृतून समतिक्रम्य कन्यान्यं वरयेद् वरम् ।।२४ क्रन्या नर्तुमुपेक्षेत बान्धवेभ्यो निवेदयेत् । ते चन्न दास्तां भत्रे ते स्युज्रणहभिः समाः ॥२५ यावन्तश्चर्तवस्तस्याः समतीता विना पतिम् । तावत्यो भ्रूणहत्याः स्युरतस्य यो न ददाति ताम् ॥२६ अतोऽप्रवृत्ते रजसि कन्यां दद्यात् पिता सकृत् । महदेनः स्पृशेदेनमन्यथैष विधिः सताम् ।।२७