SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ २६८ नारदीयमनुस्मृतिः। द्वे भायें क्षत्रियस्यान्ये वैश्यस्यैका प्रकीर्तिता। वैश्याया द्वौ पती अन्या एकोऽन्यः क्षत्रियापतिः ॥६ आ सम्मात् पञ्चमाञ्च बन्धुभ्यः पितृमातृतः । अविवाद्याः सगोत्राः स्युः समानप्रवरास्तथा ॥७ परीक्ष्य पुरुषं पुंस्त्वे निजैरेवाङ्गलक्षणैः। पुमांश्चेदविकल्पेन स कन्यां लब्धुमर्हति ॥८ सुबद्धजत्रुजान्वस्थिसुबास शिरोधरः।। स्थूलघाटातनूजत्वगविलग्नगतिस्वरः ॥६ विट् चास्य प्लवते नाप्सु रावि मूत्रं च फेनिलम् । पुमान् स्याल्लक्षणैरेतैविपरीतस्तु षण्डकः ॥१० चतुर्दशविधः शास्त्रे स तु दृष्टो मनीषिभिः । चिकित्स्यश्वाचिकित्स्यश्च तेषामुक्तो विधिः क्रमात् ॥११ निसर्गपण्डो वध्रश्च पक्षपण्डस्तथैव च । अभिशापाद् गुरो रोगाद् देवक्रोधात् तथैव च ॥१२ ईर्ष्यापण्डश्च सेव्यश्च वातरेता मुखभगः । आक्षिप्तमोघबीजश्च शालीनोऽन्यपतिस्तथा ॥१३ तत्राद्यावप्रतीकारौ पक्षाख्यं मासमाचरेत् । अनुक्रमत्रयस्यास्य कालः संवत्सरः स्मृतः ॥१४ ईर्ष्यापण्डादयो येऽन्ये चत्वारः समुदाहृताः । सन्त्यक्तव्याः पतितवत् क्षतयोन्या अपि स्त्रियाः ॥१५ आक्षिप्तमोघबीजौ च पत्यावप्रतिकर्मणि । पतिरन्यः स्मृतो नार्या वत्सरं सम्प्रतीक्ष्य तु ॥१६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy