SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ . क्षेत्रविवाद एकादशं विवादपदम् । २६५ नान्तरेणोदकं सस्यं नाशोऽप्यत्युदकेन तु। . यावाननुदके दोषस्तावानत्युदके स्मृतः ॥१६ पूर्वप्रवृत्तमुत्सन्नमपृष्ट्वा स्वामिनं तु यः । सेतुं प्रवर्तयेत् कश्चिन्न स तत्फलभाग भवेत् ॥१७ मृते वा स्वामिनि पुनस्तद्वंश्ये चापि मानवे । राजानमामन्त्र्य ततः प्रकुर्यात् सेतुकर्म तत् ॥१८ अतोऽन्यथा क्लेशभाक् स्यान्मृगव्याधनिदर्शनात् । इषवस्तस्य नश्यन्ति यो विद्धमनुविध्यति ॥१६ अशक्तप्रेतनष्टेषु क्षेत्रिकेष्वनिवारितः । क्षेत्रं चेद् विकृत् कश्चिदश्नुवीत स तत्फलम् ॥२० विकृष्यमाणे क्षेत्रे चेत् क्षेत्रिकः पुनराब्रजेत् । खिलोपचार तत्सर्वं दत्वा स्वं क्षेत्रमाप्नुयात् ।।२१ तदष्टभागोपचयाद् यावत् सप्त समा गताः । ' सम्प्राप्ते त्वष्टमे वर्षे भुक्तं क्षेत्रं लभेत सः॥२२ संवत्सरेणार्धखिलं खिलं स्याद् वत्सरैत्रिभिः । पञ्चवर्षावसन्नं तु स्यात् क्षेत्रमटवीसमम् ॥२३ क्षेत्रं त्रिपुरुषं यत्र गृहं वा स्यात् क्रमागतम् । राजप्रसादादन्यत्र न तद्भोगः परं नयेत् ॥२४ .. उत्क्रम्य तु वृतिं यत्र सस्यघातो गवादिभिः । पालो दण्ड्यो भवेत् तत्र स चेच्छक्तो न वारयेत् ॥२५ समूलसस्यनाशे तु तत्स्वामी धान्यमाप्नुयात् । वधेन पालो मुच्येत दण्डं स्वामिनि पातयेत् ।।२६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy