________________
नारदीयमनुस्मृतिः। गौः प्रसूता दशाहात् तु महोक्षाजाविकुञ्जराः । निवार्यास्तु प्रयत्नेन तेषां स्वामी न दण्डभाक् ॥२७ माषं गां दापयेद् दण्डं द्वौ माषौ महिषीं तथा । अजाविके च वत्से च दण्डः स्यादर्धमाषकः ॥२८ अदण्ड्या हस्तिनोऽश्वाश्च प्रजापाला हि ते स्मृताः। अदण्ड्या गर्भिणी गौश्च सूतिका चातिसारिणी ॥२६ प्रोक्तः स द्विगुणः सन्ने वसन्यां तु चतुर्गुणः । प्रत्यक्षचारकाणां तु चोरदण्डः स्मृतस्तथा ॥३० या नष्टाः पालदोषेण गावः क्षेत्रसमाश्रिताः । न तत्र गोमिनो दण्डः पालस्तदण्डमहति ॥३१ राजग्राहगृहीतो वा वनाशनिहतोऽपि वा। अथ सर्पण वा दष्टो गिर्यग्रात् पतितोऽपि वा ॥३२ न तत्र पालदोषः स्यान्नैव दोषोऽस्ति गोमिनाम् । गोभिस्तु भक्षितं धान्यं यो नरः प्रतिमार्गति ॥३३ सामन्तस्य शदो देयो धान्यं यत् तत्र वापितम् । गवत्रं गोमिने देयं धान्यं तत्कृषकस्य तु ॥३४ ग्रामोपान्ते च यत् क्षेत्रं विवीतान्ते महापथे । अनावृतं चेत् तन्नाशे न गोपस्य व्यतिक्रमः ॥३५ पथिक्षेत्रे वृतिः कार्या यामुष्टो नावलोकयेत् । न लङ्घयेत् पशु श्वो न भिन्द्याद् यां च सूकरः ॥३६ खातखातस्य केदारमाहुः शल्यवतो मृगम् । इषवस्तस्य नश्यन्ति यो विद्धमनुविध्यति ।।३७