________________
२६३
समयस्यानपाकर्म दशमं विवादपदम्। प्रतिकूलं च यद् राबः प्रकृत्यवमतं च यत् । बाधकं च यदर्थानां तत् तेभ्यो विनिवर्तयेत् ॥४ मिथः सङ्घातकरणमहिते शस्त्रधारणम् । परस्परोपतापं च तेषां राजा न मर्षयेत् ॥५ पृथग् गणान् ये विभिन्द्युस्ते विनेया विशेषतः। आवहेयुभयं घोरं व्याधिवत् ते ह्युपेक्षिताः ॥६ दोषवत्करणं यत् स्यादनाम्नायप्रकल्पितम् । प्रवृत्तमपि तद् राजा श्रेयस्कामो निवर्तयेत् ।।७
इति समयस्यानपाकर्म दशमं विवादपदम् ॥
अथ क्षेत्रविवाद एकादशं विवादपदम् ।
सेतुकेदारमर्यादा बिकृष्टाकृष्टनिश्चयाः । क्षेत्राधिकारा यत्र स्युर्विवादः क्षेत्रजः स तु ॥१ क्षेत्रसीमाविरोधे तु सामन्तेभ्यो विनिश्चयः । नगरपामगणिनो ये च वृद्धतमा नराः ॥२ ग्रामसीमासु च बहिर्ये स्युस्तकृषिजीविनः। गोपशाकुनिकव्याधा ये चान्ये वनगोचराः ॥३ समुन्नयेयुस्ते सीमां लक्षणैरुपलक्षिताम् । तुषाङ्गारकपालानां कुम्भैरायतनैर्दु मैः ॥४