________________
२६२
नारदीयमनुस्मृतिः। सुवर्णस्य क्षयो नास्ति रजतं द्विपलं शतम्। शतमष्टपलं शेयं क्षयः स्यात् त्रपुसीसयोः ॥११ ताम्र पञ्चपलं विद्याद् विकारा ये च तन्मयाः। तद्धेतूनामनेकत्वादयसोऽनियमः क्षये ॥१२ तान्तवस्य च संस्कारे क्षयवृद्धी उदाहृते । यत्र कार्यासिकोर्णानां वृद्धिर्दशपलं शते ॥१३ स्थूलसूत्रवतामेषा मध्यानां पञ्चलं शते । त्रिपलं तु सुसूक्ष्माणामन्तः श्रय उदाहृतः ॥१४ त्रिंशांशो रोमविद्धस्य क्षयः कर्मकृतस्य च । कौशेयवल्कलानां तु नैव बुद्धिनं च क्षयः ॥१५ क्रीत्वा नानुशयं कुर्याद् वणिक् पण्ये विचक्षणः । क्षयवृद्धी च जानीयात् पण्यानामागमं तथा ॥१६
इति क्रीत्वानुशयो नवमं विवादपम् ।।
अथ समयस्यानपाकर्म दशमं विवादपदम् । पाषण्डनैगमादीनां स्थितिः समय उच्यते । समयस्यानपाकर्म तद् विवादपदं स्मृतम् ॥१ पाषण्डनैगमश्रेणीपूगबातगणादिषु । संरक्षेत् समयं राजा दुर्गे जनपदे तथा ॥२ यो धर्मः कर्म यच्चैषामुपस्थानविधिश्च यः। यच्चैषां (प्रत्यु ? वृत्त्यु)पादानमनुमन्येत तत् तथा ॥३