SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ २६१ अथ क्रीत्वानुशयो नवमं विवादपदम् । क्रीत्वा मूल्येन यत् पण्यं क्रेता न बहु मन्यते। क्रीत्वानुशय इत्येतद् विवादपदमुच्यते ॥१ क्रीत्वा मूल्येन यत् पण्यं दुष्कीतं मन्यते क्रयी। विक्रेतुः प्रतिदेय तत् तत्रैवाहन्यविक्षतम् ॥२ द्वितीयेऽह्नि ददत् क्रेता मूल्यात् त्रिंशांशमावहेत् । द्विगुणं तत् तृतीयेऽह्नि परतः क्रतुरेव तत् ॥३ क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः। परीक्ष्याभिमतं क्रीतं विक्रेतु भवेत् पुनः ॥४ त्र्यहाद् दोह्यं परीक्षेत पञ्चाहाद्. बाह्यमेवच । मुक्तावनप्रवालानां सप्ताहं स्यात परीक्षणम् ॥५ द्विपदामधमासं स्यात् पुंसां तद्विगुणं स्त्रियाः । दशाहं सर्वबीज नामेकाहं लोहवाससाम् ॥६ परिभुक्तं तु यद् वासः क्लिन्नरूपं मलीमसम् । सदोषमपि विक्रीतं विक्रेतु भवेत् पुनः ॥७ मूल्याष्टभागो हीयेत सकृद् धौतत्य वाससः । द्विः पादनिस्त्रिभागश्च चतुधौतेऽर्धमेव च ॥८ अर्धक्षयात्तु परतः पादांशापचयः क्रमात्। . यावत् क्षीणदशं जीणं जीर्णस्यानियमः क्षये ।। लोहानामपि सर्वेषां हेतुरग्निः क्रियाविधौ।। क्षयः संस्क्रियमाणानां तेषां दृष्टोऽग्निसङ्गमात् ॥१०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy