SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ २६० . नारदीय मनुस्मृतिः। षड्विधस्तस्य तु बुधैर्दानादानविधिक्रमः । गणिमं तुलिमं मेयं क्रियया रूपतः श्रिया ॥३ विक्रीय पण्यं मूल्येन यः ऋतुर्न प्रयच्छति । स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम् ॥४ अर्घश्वेदपहीयेत सोदयं पण्यमाभवेत् । स्थानिनामेष नियमो दिग्लाभो दिग्विचारिणाम् ।।५ उपहन्येत वा पण्यं दह्येतापहियेत वा। विक्रेतुरेव सोऽनर्थो विक्रीयासम्प्रयच्छतः ॥६ निर्दोषं दर्शयित्वा तु यः सदोषं प्रयच्छति । मूल्यं स द्विगुणं दाप्यो विनयं तावदेव च।।७ तथान्यहस्ते विक्रीय योऽन्यहस्ते प्रयच्छति । सोऽपि तहिगुणं दाप्यो विनयं तावदेव च ॥८ दीयमानं न गृह्णाति पण्यं क्रीतं हि यत् क्रयी। विक्रीणानस्तदन्यत्र विक्रेता नापराध्नुयात् ।। दत्तमूल्यस्य पण्यस्य विधिरेष प्रकीर्तितः। अदत्तमूल्ये विक्रीते न विक्रेतुरतिक्रमः ॥१० लाभार्थों वणिजां सर्वः पण्येषु क्रयविक्रयः । स च लाभोऽर्घमासाद्य महान् भवति वा नवा ॥११ तस्माद् देशे च काले च वणिगर्घ प्रकल्पयेत् । न जिह्मन प्रवर्तेत श्रेयानेष वणिक्पथः ॥१२ इति विक्रीयासम्प्रदानमष्टमं विवादपदम् ।।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy