SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ अस्वामिविक्रयः सप्तमं विवादपदम् । अस्वाम्यनुमताद् दासादसतश्च जना रहः । हीनमूल्यमवेलायर्या क्रीणस्तदोषभाग भवेत् ॥३ न गूहेदागर्म क्रेता शुद्धियस्य तदागमात् । .. विपर्यये तुल्वदोषः सर्व तदोषमर्हति ॥४ विक्रेता स्वामिनेऽथं च ऋतुर्मूल्यं च सत्कृतम् । दद्याद् दण्डं तथा राज्ञ विधिरस्वामिविक्रये ॥५ परेण निहितं लब्ध्वा राजन्युपहरेनिधिम् ।। राजगामी निधिः सर्वः सर्वेषां ब्राह्मणाहते ॥६ ब्राह्मणोऽपि निधिं लब्ध्वा क्षिप्रं राशे निवेदयेत् । तेन दत्तं च भुञ्जीत स्तेनः स्यादनिवेदयन् ।। स्वमप्यर्थ तथा नष्टं लब्ध्या राशे निवेदयेत् । गृह्णीयात् तत्र तं शुद्धमशुद्धः स्यादतोऽन्यथा ॥८ इति अस्वामिविक्रयः सप्तमं विवादपदम् ।। अथ विक्रीयासम्प्रदानमष्टमं विवादपदम् । विक्रीय पण्यं मूल्येन ऋतुर्यन्न प्रयच्छति । विक्रीयासम्प्रदानं तद् विवादपदमुच्यते ॥१ लोकेऽस्मिन् द्विविधं द्रव्यं स्थावरं जङ्गमं तथा। क्रयविक्रयधर्मेषु सर्व तत् पण्यमुच्यते ॥२
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy