SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ २८६ . नारदीय मनुस्मृतिः। अक्षताभिः सपुष्पाभिमूर्धन्येनमवाकिरेत् ।। अदास इति चोक्त्वा त्रिः प्राङ्मुखं तमथोत्सृजेत् ॥४१ ततःप्रभति वक्तव्यः स्वाम्यनुप्रहपालितः । भोज्यान्नः प्रतिगृह्यश्च भवत्यभिमतश्च सः॥४२ इत्यभ्युपेत्याशुश्रूषा पञ्चमं विवादपदम् । अथ वेतनस्यानपाकर्म षष्ठं विवादपदम् । भृतानां वेतनस्योक्तो दानादानविधिक्रमः। वेतनस्यानपाकर्म तद् विवादपदं स्मृतम् ॥१ भृत्याय वेतनं दद्यात् कर्मस्वामी यथाकृतम् । आदौ मध्येऽवसाने वा कर्मणो यद् विनिश्चितम् ।।२ भृतावनिश्चितायां तु दशभागं समाप्नुयुः । लाभगोबीजसस्यानां वणिग्गोपकृषीवलाः॥३ कर्मोपकरणं चैषां क्रियां प्रति यदर्पितम् । आप्तभावेन कुर्वीत न जिह्येन समाचरेत् ।।४ कर्माकुर्वन् प्रतिश्रुत्य कार्यों दत्त्वा भृतिं बलात् । भृतिं गृहीत्वाकुर्वाणो द्विगुणां भृतिमावहेत् ।।५ अनयन् नादयित्वा तु भाण्डं वा यानवाहने । दाप्यो भृतिचतुर्भागं सर्वामर्धपथे त्यजन् ॥६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy