SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ अभ्युपेत्याशुश्रूषा पञ्चमं विवादपदम्। २८५ आधत्तोऽथ धनं दत्त्वा स्वामी यद्यनमुद्धरेत् । अथोपगमयेदेनं सोऽपि क्रीतादनन्तरः ॥३० दत्त्वा तु सोदयमृणमृगी दास्याद् विमुच्यते । कृतकालाभ्युपगमात् कृतकोऽपि विमुच्यते ॥३१ तवाहमित्युपगतो युद्धप्राप्तः पणे जितः । प्रतिपूरूषदानेन मुच्येरंस्तुल्यकर्मणा ॥३२ राज्ञ एव तु दासः स्यात् प्रव्रज्यापमृतो नरः । न तस्य प्रतिमोक्षोऽस्ति विशुद्धिर्वा कथञ्चन ॥३३ भक्तस्योपेक्षणात् सद्यो भक्तदासः प्रमुच्यते । निग्रहाद् बडबायाश्च मुच्यते बडबाभृतः ॥३४ विक्रीणाति स्वतन्त्रः सन् य आत्मानं नराधमः । सुजघन्यतमस्तेषां सोऽपि दास्यान्न मुच्यते ॥३५ चोरापहृतबिक्रीता ये च दासीकृता बलात् । राज्ञा मोक्षयितव्यास्ते दासत्वं तेषु नेष्यते ॥३६ वर्णानां प्रातिलोम्येन दासत्वं न विधीयते । स्वधर्मत्यागिनोऽन्यत्र दारवद् दासता मता ॥३७ तवास्मीति य आत्मानमस्वतन्त्रः प्रयच्छति । न स तं प्राप्नुयात् कामं पूर्वस्वामी लभेत तम् ॥३८ अधनात्रय एवोक्ता भार्या दासस्तथा सुतः । यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥३६ स्वदासमिच्छेद् यं कर्तुमदासं प्रीतमानसः । स्कन्धादादाय तस्याथ भिन्द्यात् कुम्भं सहाम्भसा ॥४०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy