SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ २८४ नारदीयमनुस्मृतिः। गृहीतशिल्पः समये कृत्वाचार्य प्रदक्षिणम् । शिक्षितश्चानुमान्यैनमन्तेवासी निवर्तयेत् ।।१६ भृतकस्त्रिविधो ज्ञेय उत्तमो मध्यमोऽधमः । शक्तिभक्त्यनुरूपा स्यादेषां कर्माश्रया भृतिः ॥२० उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषीबलः । अधमो भारवाहः स्यादित्येवं त्रिविधो भृतः ॥२१ अर्थेषधिकृतो यः स्यात् कुटुम्बस्य तथोपरि । सोऽधिकर्म करो ज्ञेयः स च कौटुम्बिकः स्मृतः ।।२२ शुभकर्मकरा ह्येते चत्वारः समुदाहृता । जघन्यकर्मभाजस्तु शेषा दासास्त्रिपञ्चकाः ।।२३ गृहजातस्तथा क्रोतो लब्धो दायादुपागतः । अशनादिभृतस्तद्वदाधत्तः स्वामिना च यः॥२४ मृगाच मोक्षितोऽनल्पाद् युद्धप्राप्तः पणे जितः । तवाहमित्युपगतः प्रव्रज्यापसृतः कृतः ।।२५ भक्तदासश्च विज्ञेयस्तथैव बडबाभृतः। विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः ॥२६ तत्र पूर्वश्चतुर्वर्गो दासत्वान्न विमुच्यते।। प्र(दासा ?सादा)त् स्वामिनोऽन्यत्र दास्यमेषां क्रमागतम् ।।२७ यश्चैषां स्वामिनं कश्चिन्मोक्षयेत् प्राणसंशयात् । दासत्वात् स विमुच्येत पुत्रभागं लभेत च ।।२८ अनांकालभृतो दास्यान्मुच्यते गोयुगं ददत् । सम्भक्षितं यद् दुर्भिक्षे न तच्छुध्येत कर्मणा ॥२६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy