________________
अभ्युपेत्याशुश्रूषा पञ्चमं विवादपदम्। २८३ आ विद्याग्रहणाच्छिष्यः शुश्रूषन् प्रयतो गुरुम् । तवृत्तिर्गुरुदारेषु गुरुपुत्रे तथैव च ॥८ ब्रह्मचारी चरेद् भैक्षमधःशाय्यनलकृतः। जघन्यशायी सर्वेषां पूर्वोत्थायी गुरोगुहे । नासन्दिष्टः प्रतिष्ठेत तिष्ठेद् वापि गुरुं कचित् । सन्दिष्टः कर्म कुर्वीत शक्तश्चेदविलम्बयन ॥१० यथाकालमधीयीत यावन्न विमना गुरुः । आसीनोऽधो गुरोः कूर्चे फलके वा समाहितः॥११ अनुशिष्यश्च गुरुगा न चेदनुविधीयते । अवधेनाथवा शिष्यान् रज्ज्वा वेणुदलेन वा ।।१२ भृशं न ताडयेदेनं नोत्तमाङ्गे न वक्षसि । अनुशिष्य च विश्वास्यो दण्ड्यो राज्ञान्यथा गुरुः ॥१३ समावृत्तश्च गुरवे प्रदाय गुरुदक्षिणाम् । प्रतीयात् स्वगृहानेषा शिष्यवृत्तिरुदाहृता ॥१४ स्वशिल्पमिच्छन्नाह बान्धवानामनुज्ञया । आचार्यस्य वसेइन्ते कालं कृत्वा सुनिश्चितम् ।।१५ आचार्यः शिक्षयेदेनं स्वगृहाद् दत्तभोजनम् । नचान्यत् कारयेत् कर्म पुत्रवञ्चैनमाचरेत् ॥१६ शिक्षयन्तमदुष्टं च य आचार्य परित्यजेत् । बलाद् वासयितव्यः स्याद् वधबन्धौ च सोऽर्हति ॥१७ । शिक्षितोऽपि कृतं कालमन्तेवासो समाप्नुयात् । तत्र कर्म च यत् कुर्यादाचार्यस्यैव तत्फलम् ॥१८