________________
२८२
नारदीयमनुस्मृतिः। गृह्णात्यदत्तं यो लोभाद् यश्चादेयं प्रयच्छति । अदत्तादायको दण्ड्यस्तथादेयस्य दायकः ॥११
इति दत्ताप्रदानिकं चतुर्थ विवादपदम् ।।
अथाभ्युपेत्याशुश्रूषा पञ्चमं विवादपदम् । अभ्युपेत्य च शुश्रूषां यस्तां न प्रतिपद्यते । अशुश्रूषाभ्युपेत्येति विवादपदमुच्यते ॥१ शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः । चतुर्विधः कर्मकरः शेषा दासास्त्रिपञ्चकाः ॥२ शिष्यान्तेवासिभृतकाश्चतुर्थस्त्वधिकर्मकृत् । एते कर्मकराः प्रोक्ता दासास्तु गृहजादयः ॥३ सामान्यमस्वतन्त्रत्वमेषामाहुर्मनीषिणः।' जातिकर्मकृतस्तूक्तो विशेषो वृत्तिरेव च ॥४ कर्मापि द्विविधं ज्ञेयमशुभं शुभमेव च । अशुभं दासकोक्त शेषं कर्मकृतः स्मृतम् ॥५ गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम् । . गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् ॥६ इष्टतः स्वामिनश्चाङ्गरुपस्थानमथान्ततः । अशुभं कर्म विज्ञेयं शुभमन्यदतः परम् ॥७