SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ २८१ अथ दत्ताप्रदानिकं चतुर्थ विवादपदम् । दत्त्वा द्रव्यमसम्यग् यः पुनरादातुमिच्छति । दत्ताप्रदानिकं नाम तद् विवादपदं स्मृतम् ॥१ अथ देयमदेयं च दत्तं चादत्तमेव च । व्यवहारेषु विज्ञेयो दानमार्गश्चतुर्विधः ॥२ तत्रेहाष्टावदेयानि देयमेकविधं स्मृतम् । दत्तं साविधं विद्याददत्तं षोडशात्मकम ॥३ अन्वाहितं याचितकमाधिं साधारणं च यत् । निक्षेपं पुत्रदारं च सर्वस्वं चान्वये सति ॥४ आपत्स्वपि हि कष्टासु वर्तमानेन देहिना । अदेयान्याहुराचार्या यच्चान्यस्मै प्रतिश्रुतम् ।।५ कुटुम्बभरणाद् द्रव्यं यत्किञ्चिदतिरिच्यते । तद् देयमुहत्यान्यद् दददागः समाप्नुयात् ॥६ पण्यमूल्यं भृतिस्तुष्टया स्नेहात् प्रत्युपकारितम् । स्त्रीशुल्कानुग्रहार्थं च दत्तं दानविदो विदुः ॥७ अदत्तं तु भयक्रोधवेषशोकरजान्वितैः। तथोत्कोचपरीहासव्यत्यासच्छलयोगतः ।।८ बालप्रमूढास्वतन्त्रमत्तोन्मत्तापवर्जितम् । कर्ता ममायं कर्मेति प्रतिलाभेच्छया च यत् ।।ह अपात्रे पात्रमित्युक्ते कार्ये चाधर्मसंहिते। यद् दत्तं स्यादविज्ञानाददत्तं तत् प्रकीर्तितम् ।।१०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy