SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ नारदीयमनुस्मृतिः। दैवतस्करराजोत्थे व्यसने समुपस्थिते । यस्तत् स्वशत्या संरक्षेत् तस्यांशो दशमः स्मृतः ॥६ एकस्य चेत् तव्यसनं दायादोऽस्य तदाप्नुयात् । अन्यो वासति दायादेशक्ताश्चेत् सर्व एव वा ॥७ भृत्विजां व्यसनेऽप्येवमन्यस्तत्कर्म निस्तरेत् । लभेत दक्षिणाभागं स तस्मात् सम्प्रकल्पितम् ।।८ ऋत्विग् याज्यमदुष्टं यस्त्यजेदनपकारिणम् । अदुष्टमृत्विजं याज्यो विनेयौ तावुभावपि ॥8 ऋत्विक् तु त्रिविधः प्रोक्तः पूर्वैर्जुष्टः स्वयंवृतः । यदृच्छया च यः कुर्यादात्विज्यं प्रीतिपूर्वकम् ॥१० क्रमागतेष्वेष धर्मो वृतेष्वृत्विक्षु च स्वयम् । यादृच्छिके तु सांयाज्ये तत्त्यागे नास्ति किल्विषम् ।।११ शुल्कस्थानं वणिक प्राप्तः शुल्कं दद्याद् यथोपगम् । न तद् व्यतिहरेद् राज्ञां बलिरेष प्रकल्पितः ॥१२ शुल्कस्थानं परिहरनकाले क्रयविक्रयी। मिथ्योक्त्वा च परीमाणं दाप्योऽष्टगुणमत्ययम् ॥१३ कश्चिञ्चत् सञ्चरन् देशात्प्रेयादभ्यागतो वणिक् । राजास्य भाण्डं संरक्षेद् यावदायाददर्शनम् ॥१४ दायादेऽसति बन्धुभ्यो ज्ञातिभ्योऽस्य समर्पयेत् । तदभावे सुगुप्तं तद् धारयेद् दशतीः समाः ॥१५ अस्वामिकमदायादं दशवर्षोषितं ततः।। राजा तदात्मसात् कुर्यादेवं धर्मो न हीयते ॥१६ इति सम्भूयसमुत्थानं तृतीयं विवादपदम् ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy