SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ सम्भूयसमुत्थानं तृतीयं विवादपदम् । २७६ ग्रहीतुः सह योऽर्थेन नष्टो नष्टः स दायिनः।। देवराजकृते तद्वन्न चेत् तजिह्मकारितम् ॥६ एष एव विधिदृष्टो याचितावाहितादिषु । शिल्पिधूपनिधौ न्यासे प्रतिव्यासे तथैव च ॥७ प्रतिगृह्णाति पोगण्डं यश्च सप्रधनं नरः। तस्याप्येष विधिदृष्टः षडेते विधयः समाः ॥८ इति औपनिधिकं द्वितीयं विवादपदम् । अथ सम्भूयसमुत्थानं तृतीयं विवादपदम् । वणिकप्रभृतयो यत्र कर्म सम्भूय कुर्वते । तत् सम्भूयसमुत्थानं व्यवहारपदं स्मृतम् ।।१ फलहेतोरुपायेन कर्म सम्भूय कुर्वताम् । आधारभूतः प्रक्षेपस्तेनोत्तिष्ठेयुरंशतः ॥२ समोऽतिरिक्तो होनो वा यत्रांशो यस्य तादृशः । क्षयव्ययौ तथा वृद्धिस्तस्य तत्र तथाविधा ॥३ भाण्डपिण्डव्ययोद्धारभारसारान्ववेक्षणम् । कुर्युस्ते व्यवहारेण समये स्वे व्यवस्थिताः॥४ प्रमादान्नाशितं दाप्यः प्रतिषिद्धकृतं च यत् । असन्दिष्टं च यत् कुर्यात् सर्वैः सम्भूयकारिभिः॥५
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy