________________
२७८
नारदीयमनुस्मृतिः। सप्तर्षयस्तथा सेन्द्राः पुष्करार्थे तपोधनाः । शेपुः शपथमव्ययाः परस्परविशुद्धये ॥२१६ अयुक्तं साहसं कृत्वा प्रत्यापत्तिं भजेत यः । ब्रूयात् स्वयं वा सदसि तस्याविनयः स्मृतः ॥२२० मूहमानस्तु दोश्शील्याद् यदि पापं से हीयते । सभ्याश्चास्य न दुष्यन्ति तोवो दण्डश्च पार्थिवात् ॥२२१
इति भृणादानं प्रथमं विवादपदम् ॥
अथोपनिधिकं द्वितीयं विवादपदम् । स्वद्रव्यं यत्र विनम्भान्निक्षिपत्यविशङ्कितः । निक्षेपो नाम तत् प्रोक्तं व्यवहारपदं बुधैः ।।१ अन्यद्रव्यव्यवहितं द्रव्यमव्याकृतं च यत् । निक्षिप्यते परगृहे तदोपनिधिकं स्मृतम् ।।२ स पुनर्द्विविधः प्रोक्तः साक्षिमानितरस्तथा । प्रतिदानं तथैवास्य प्रत्ययः स्याद् विपर्यये ॥३ याच्यमानस्तु यो दाना निक्षेपं न प्रयच्छति । दण्ड्यः स राज्ञा दाप्यश्च नष्टे दाप्यश्च तत्समम् ।।४. यश्चार्थ साधयेत्तेन निक्षेप्तुरननुज्ञया । तत्रापि दण्ड्यः स भवेत् तच्च सोदयमाप्नुयात् ॥५