________________
२७७
मृणादानं प्रथमं विवादपदम् । निर्दिष्टेष्वर्थजातेषु साक्षी चेत् साक्ष्य आगते। न ब्रूयादारसमं न तन्निगदितं भवेत् ।।२०८ देशकालवयोद्रव्यप्रमाणाकृतिजातिषु । यत्र विप्रतिपत्तिः स्यात् साक्ष्यं तदपि चान्यथा ॥२०६ ऊनमभ्यधिकं वार्थं प्रयुयंत्र साक्षिणः । तदप्यनुक्तं विज्ञेयमेष साक्ष्यविधिः स्मृतः ॥२१० प्रमादाद् धनिनो यत्र न स्याल्लेख्यं न साक्षिणः । अर्थ चापह्न ते वादी तत्रोक्तस्त्रिविधो विधिः ।।२११ चोदना प्रतिकालं च युक्तिलेशस्तथैव च।। तृतीयः शपथः प्रोक्तस्तैमृणं शोधयेत् क्रमात् ॥२१२ अभीक्ष्णं चोद्यमानोऽपि प्रतिहन्यान्न तद्वचः । त्रिश्चतुष्पञ्चकृयो वा परतोऽथ समाचरेत् ।।२१३ चोदनाप्रतिघाते तु युक्तिलेशैस्तमन्वियात् । देशकालार्थसम्बन्धपरिमाण क्रियादिभिः ॥२१४ युक्तिध्यप्यसमर्थासु शपथैरेनमर्दयेत् । देशकालबलापेक्षमग्न्यम्बुसुकृतादिभिः ॥२१५ दीप्तो यं न दहत्यग्निरापोज्तर्धारयन्ति यम् । स तरत्यभिशापं तं किल्बिषी स्याद् विपर्यये ।।२१६ स्त्रीणां शीलाभियोगे च स्तेयसाहसयोरपि । एष एव विधिदृष्टः सर्वार्थापह्नवेषु यः ॥२१७ शपथा षिदेवानां पुरा सृष्टाः स्वयम्भुवा । वशिष्ठः शपथं शेपे यातुधानेति शब्दितः ॥२१८