________________
नारदीयमनुस्मृतिः। अनुभूय च दुःखास्ताश्चिरं नरकवेदनाः। इहायास्यस्यभव्यासु गृध्रकाकादियोनिषु ॥१६७ ज्ञात्वैताननृते दोषान् ज्ञात्वा सत्ये च सद्गुणान् । सत्यं वदोद्धरात्मानं मात्मानं पीपतश्विरम् ॥१६८ न बान्धवा न सुहृदो न धनानि महान्त्यपि । अलं धारयितुं शक्तास्तमस्युरो निमन्जतः ।।१६६ पितरस्त्ववलम्बन्ते स्वयि साक्षित्वमागते । तारयिष्यति किन्न्वस्मानात्मानं पातयिष्यति ।।२०० सत्यमात्मा मनुष्यस्य सर्व सत्ये प्रतिष्ठितम् । सर्वथैवात्मनात्मानं श्रेयसा योजयिष्यसि ॥२०१ यां रात्रिमजनिष्ठास्त्वं यां च रात्रि मरिष्यसि । वृथा तदन्तरा ते स्यात् साक्ष्यं चेदन्यथा वदेः ।।२०२ नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् । साक्षिधर्मे विशेषेण सत्यमेव वदेरतः ॥२०३ यः परार्थेऽपहरति स्वां वाचं पुरुषाधमः । आस्मार्थे किन्न कुर्यात् स पापं नरकनिर्भयः ॥२०४ अर्था वै वाचि नियता वाङ्मूला वाचि मिश्रिताः । यो वैतां स्तेययेद् वाचं स सवस्तेयकृन्नरः ॥२०५ साक्षिविप्रतिपत्तौ तु प्रमाणं बहवो यतः। तत्साम्ये शुचयो ग्राह्यास्तसाम्ये स्मृतिमत्तराः ॥२०६ स्मृतिमत्साक्षिसाम्यं तु विवादे यत्र दृश्यते । तीक्ष्णत्वात् साक्षिधर्मस्य साक्ष्यं व्यावर्तते ततः॥२०७