SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ मृणादानं प्रथमं विवादपदम् । पञ्च पश्वनृते हन्ति दश हन्ति गवानृते । शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥१८६ हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् । सव भूम्यनृते हन्ति मा स्म भूम्यनृतं वादी ? दः)॥१८७ एकमेवाद्वितीयं तत्प्राहुः पवनमात्मनः। सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥१८८ अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्रात् तु सत्यमेव विशिष्यते ॥१८६ परं कूपशताद् वापी परं वापीशतात् क्रतुः । परं क्रतुशतात् पुत्रः सत्यं पुत्रशतात् परम् ॥१६० भूर्धारयति सत्येन सत्येनोदयते रविः। सत्येन वायुः पवते सत्येनापः स्रवन्ति च ॥१६१ सत्यमेव परं दानं सत्यमेव परं तपः। सत्यमेव परो धर्मो लोकानामिति वै श्रुतिः ।।१६२ . सत्यं देवाः समासेन मनुष्यास्त्वनृतं स्मृताः। इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः ॥१६३ सत्यं ब्रूहनृतं त्यक्त्वा सत्येन स्वर्गमेष्यसि । उक्त्वानृतं महाघोरं नरकं सम्प्रपत्स्यते ॥१६४ निरयेषु च ते शश्वजिह्वामुत्कृत्य दारुणाः । असिभिः शातयिष्यन्ति बलिनो यमकिङ्कराः ॥१६५ शूले मत्स्यानिवाक्षिप्य क्रोशन्तमपरायणम् । ._ अवाक्छिरसमुत्क्षिप्य क्षेप्यन्त्यग्निहदेषु च ॥१६६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy