________________
२७२
नारदीय मनुस्मृतिः . कुद्दालपाणिविशेयः सेतुभेत्ता समोपगः। . तथा कुठारपाणिश्च वनच्छेत्ता प्रकीर्तितः ॥१५३ अभ्यप्रचिह्नो विशेयो दण्डपारुष्यकृन्नरः।। असाक्षिप्रत्यया ह्येते पारुष्ये तु परीक्षणम् ॥१५४ कश्चित् कृत्वात्मनश्चिह्न द्वेषात् परमभिद्रवेत् । हुत्वर्थगतिसाम यस्तत्र युक्तं परीक्षणम् ॥१५५ नार्थसम्बन्धिनो नाप्ता न सहाया न वैरिणः । न दृष्टदोषाः प्रष्टव्याः साक्षिणः प्रतिदूषिताः ॥१५६ दासनकृतिकाश्रद्धवृद्धस्त्रीबालचाक्रिकाः । मत्तोन्मत्तप्रमत्तार्तकितवनामयाजकाः ॥१५७ महापथिकसामुद्रवणिक्प्रव्रजितातुराः । लुब्धैकश्रोत्रियाचारहीनकीबकुशीलवाः ॥१५८ नास्तिकब्रात्यदाराग्नित्यागिनोऽयाज्ययाजकाः । एकस्थालिसहायारिचरज्ञातिसनाभयः ॥१५६ प्राग्दृष्टदोषशैलूषविषजीव्याहितुण्डिकाः । गरदाग्निदकीनाशशूद्रापुत्रोपपातकाः ॥१६० क्लान्तसाहसिकाशान्तनिघृतान्तावसायिनः । भिन्नवृत्त्यसमावृत्तझल्लतैलिकमूलिकाः ॥१६१ भूताविष्टनृपद्विष्टवर्षनक्षत्रसूचकाः । अघशंस्यात्मविक्रेतहीनाङ्गभगवृत्तयः ॥१६२ कुनखी श्यावदन श्वित्री मित्र- कछठशौण्डिकाः। ऐन्द्रजालिकलुब्धोग्रश्रेणीगणविरोधिनः ॥१६३