________________
मृणादानं प्रथमं विवादपदम्।
२६६ यस्मिन्स्यात्संशयो लेख्ये भूताभूतकृते कचित् । तत्स्वहस्तक्रियाचिहप्रान्तियुक्तिभिरुद्धरेत् ॥१२० लेख्यं यच्चान्यनामाङ्क हेत्वन्तरकृतं भवेत् । विप्रत्यये परीक्ष्यं तत्सम्बन्धागमहेतुभिः ॥१२१ लिखितं लिखितेनैव साक्षिमत् साक्षिभिर्हरेत् । साक्षिभ्यो लिखितं श्रेयो लिखितेन तु साक्षिणः ॥१२२ छिन्नभिन्नहृतोत्मृनष्टदुर्लिखितेषु च । लेख्यमन्यद्धि कर्तव्यमेष लेख्यविधिः स्मृतः ॥१२३ सन्दिग्धेषु तु कार्येषु द्वयोर्विवदमानयोः। दृष्श्रुतानुभूतत्वात् साक्षिभ्यो व्यक्तिदर्शनम् ॥१२४ समक्षदर्शनात् साक्षी विज्ञेयः श्रोत्रचक्षुषोः । श्रोत्रस्य यत्परो ब्रूते चक्षुषः कायकर्म यत् ॥ १२५ एकादशविधः साक्षी स तु लो मनीषिभिः । कृतः पञ्चविधत्तत्र षड्विधो कृत उच्यते ॥१२६ लेखितः स्मारितश्चैव यदृच्छाभिज्ञ एव च । गूढश्चोत्तरसाक्षी च साक्षी पञ्चविधः स्मृतः ।।१२७ अकृतः षड्विधो नित्यः सूरिभिः परिकीर्तितः । प्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम् ।।१२८ कार्येष्वधिकृतो यः स्यादर्थिना प्रहितश्च यः। कुलं कुलविवादेषु भवेयुस्तेऽपि साक्षिणः ॥१२६ कुलीना अजवः शुद्धा जन्मतः कर्मतोऽर्थतः। व्यवराः साक्षिणोऽनिन्द्याः शुचयः स्युः सुबुद्धयः ॥१३०