________________
२६८
नारदीयमनुस्मृतिः। मृणिकः सधनो यस्तु दौरात्म्यान्न प्रयच्छति । राज्ञा दापयितव्यः स्याद् गृहीत्वांशं तु विंशकम् १०६ अथ शक्तिविहीनः स्याहणी कालविपर्ययात् । शक्त्यपेक्षमृगं दाप्यः काले काले यथोदयम्॥११० नश्येद् द्रव्यपरीमाणं कालेनेहर्णिकस्य चेत् । जातिसंज्ञाधिवासानामागमो लेख्यतः स्मृतः ॥१११ लेख्यं तु द्विविधं ज्ञेयं स्वहस्तान्यकृतं तथा। . असाक्षिकं साक्षिमञ्च सिद्धिर्देशस्थितिस्तयोः॥११२ देशाचाराविरुद्ध यद् व्यक्ताधिकृतरक्षणम् । तप्रमाणं स्मृतं लेख्यमविलुप्तक्रमाक्षरम् ११३ मत्ताभियुक्तस्त्रीबालबलात्कारकृतं च यत् । तइप्रमाणं करणं भीतोपधिकृतं तथा ॥११४ मृताः स्युः साक्षिणो यत्र धनिकर्णिकलेखकाः । तदप्यपा) लिखितमृते त्वाधेः स्थिराश्रयात् ॥११५ आधिों द्विविधः प्रोक्तः स्थावरो जङ्गमस्तथा । सिद्धिरस्योभयस्यापि भोगो यद्यस्ति नान्यथा ॥११६ दर्शितं प्रतिकालं यच्छ्रावितं सावितं च यत् । लेख्यं सिध्यति सर्वत्र मृतेष्वपि हि साक्षिषु ॥११७ अश्रुतार्थमदृष्टार्थं व्यवहारार्थमेव च। न लेख्यं सिद्धिमाप्नोति जीवत्स्वपि हि साक्षिषु ॥११८ लेख्ये देशान्तरन्यस्ते दग्धे दुलिखिते हृते। सतस्तत्कालकरणमसतोऽदृष्टदर्शनम् ॥११६