SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ मृणादानं प्रथमं विवादपदम्। २६७ गृहीत्वोपगतं दद्याद् भूणिकायोदयं धनी। अददद् याच्यमानस्तु शेषहानिमवाप्नुयात् ।।६८ लेख्यं दद्यादणे शुद्ध तदभावे प्रतिश्रवम् । धनिकर्णिकयोरेवं विशुद्धिः स्यात्पस्परम् ॥६६ विसम्भहेतू द्वावत्र प्रतिभूराधिरेव च । लिखितं साक्षिणश्च द्वे प्रमाणे व्यक्तिकारणे ॥१०० उपस्थानाय दानाय प्रत्ययाय तथैव च । त्रिविधः प्रतिभूदृष्टस्त्रिष्वेवार्थेषु सूरिभिः ।।१०१ ऋणिष्वप्रतिकुर्वत्सु प्रत्यये वा विवादिते । प्रतिभूस्तहणं दद्यादनुपस्थापयंस्तथा ।।१०२ बहवः स्युः प्रतिभुवो दास्तेऽथं यथाकृतम् । अर्थेऽविशेषिते त्वेषु धनिनश्छन्दतः क्रिया ॥ १०३ यमर्थ प्रतिभूर्दद्याद् धनिकेनोपपीडितः । ऋणिकस्तं प्रतिभुवे द्विगुणं प्रतिपादयेत् ।।१०४ अधिक्रियत इत्याधिः स तु ज्ञेयो द्विलक्षणः । कृतकालोपनेयश्च यावद्देयोद्यतस्तथा ॥१०५. स पुनर्द्विविधः प्रोक्तो गोप्यो भोग्यरतथैव च । प्रतिदानं तथैवास्य लाभहानिर्विपर्यये ।।१०६ प्रमादाद् धनिनरतद्वदाधौ विकृतमागते । विनष्ठे मूलनाशः स्यादेवराजकृताहते ॥१०७ रक्ष्यमाणोऽपि यत्राधिः कालेनेयादसारताम् । आधिरन्योऽधिवर्तव्यो देयं वा धनिने धनम् ।।१०८
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy