SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ भृणादानं प्रथमं विवादपदम् । २६५ निर्भोगो यत्र दृश्येत न दृश्येतागमः क्वचित् । आगमः कारणं तत्र न भोगस्तत्र कारणम् ।।७६ भुज्यतेऽनागमं यत्तु न तद्भोगोऽतिवर्तते । प्रेते तु भोक्तरि धनं यति तद्वंश्यभोग्यताम् ।।७७ आहतवाभियुक्तः सन्नर्थतस्तद्धरेत् पदम् । भुक्तिरेत्र विशुद्धिः स्यात् प्राप्तानां पितृतः क्रमात् ।।७८ अन्वाहितहतन्यस्तबलावष्टब्धयाचितम् । अप्रत्यक्षं च यद्भक्त षडेतान्याममाद्विना ।।७६ तथारूढविवादस्य प्रेतस्य व्यवहारिणः । पुत्रेण सोऽर्थः संशोध्यो न तद्भोगोऽतिवर्तते ।।८० आगमेन विना पूर्व भुक्तं पूर्व स्त्रिभिस्तु यत् । न तच्छक्यमपाकर्तु क्रमात्रिपुरुषागतम् ।।८१ सन्तोऽपि न प्रमाणं स्युमृते धनिनि साक्षिणः । अन्यत्र श्रावितं यत्स्यात् स्वयमासन्नमृत्युना ॥८२ नहि प्रत्यर्थिनि प्रेते प्रमाणं साक्षिणां वचः। साक्षिमत्करणं तत्र प्रमाणं स्याद्विनिश्चये ॥८३ श्रावितस्त्वातुरेणापि यस्त्वर्थो धर्मसंहितः । मृतेऽपि तत्र साक्षी स्यात् षट्सु चान्वाहितादिषु ।।८४ क्रियादिषु सर्वेषु बलवत्युत्तरोत्तरा। प्रतिग्रहाधिक्रीतेषु पूर्वा पूर्वा गरीयसी ॥८५ स्थानलाभनिमित्तं हि दानग्रहणमिष्यते । तत्कुसीदमिति ज्ञेयं तेन वृत्तिः कुसीदिनाम् ।।८६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy