________________
२६४
नारदीयमनुस्मृतिः। लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं विदुः । धनस्वीकरणे येन धनी धनमुपाश्नुते ॥६५ लिखितं बलवन्नित्यं जीवन्तस्त्वेव साक्षिणः। कालातिहरणाद्धक्तिरिति शास्त्रेषु निश्चयः॥६६ त्रिविधस्यास्य दृष्टस्य प्रमाणस्य यथाक्रमम् । पूर्व पूर्व गुरु शेयं भुक्तिर्वैषां गरीयसी ॥६७ विद्यमानेऽपि लिखिते जीवत्स्वपि हि साक्षिषु । विशेषतः स्थावराणां यन्न भुक्तं न तस्थिरम् ॥६८ भुज्यमानान् परैरर्थान् यः स्वमौढ्यादुपेक्षते। समक्षं जीवतोऽप्यस्य तान् भुक्तिः कुरते स्वकान् ।।६६ यत्किञ्चिदश वर्षाणि सन्निधौ प्रेक्षते धनी। भुज्यमानं परस्तूष्णीं न स तल्लब्धुमर्हति ।।७० उपेक्षां कुर्वतस्तस्य तूष्णीम्भूतस्य तिष्ठतः। कालेऽतिपन्ने पूर्वोक्तो व्यवहारो न विद्यते ।।७१ अजलश्चेदपोगण्डो विषये चास्य भुज्यते । भुक्तं तद्वयवहारेण भोक्ता तद्धनमर्हति ।।७२ आधिः सीमा बालधनं निक्षेपोपनिधिस्त्रियः। राजस्वं श्रोत्रियस्वं च नौपभोगेन जीर्यति ।।७३ प्रत्यक्षपरिभोगाच्च स्वामिनो द्विदशाः समाः ।
आध्यादीन्यपि जीर्येयुः स्त्रीनरेन्द्रधनाहते ७४ स्त्री धनं च नरेन्द्राणां न कथञ्चन जीर्यति । अनागमं भुज्यमानं वत्सराणां शतैरपि ॥७५