SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ २६३ मृणादानं प्रथमं विवादपदम् । उत्कृष्टं चापकृष्टं च तयोः कर्म न विद्यते । मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥५४ आपदं ब्राह्मणस्तीर्खा क्षत्रवृत्त्या भृते जने। उत्सृजेत् क्षत्रवृत्तिं तां कृत्वा पावनमात्मनः ॥५५ तस्यामेव तु यो वृत्तौ रमते ब्राह्मणो रसात् । काण्डपृष्ठश्च्युतो मार्गात्सोऽपाक्तेयः प्रकीर्तितः ॥५६ वैश्यवृत्तावविक्रेयं ब्राह्मणस्य पयो दधि । घृतं मधु मधूच्छिष्टं लाक्षाक्षाररसासवाः ॥५७ मांसौदनतिलक्षौमसोमपुष्पफलोपलाः । मनुष्यविषशस्त्राम्बुलवणापूपवीरुधः ॥५८ नीलकौशेयचर्मास्थिकुतपैकशफा मृदः। उदश्वित्केशपिण्याकशाकाद्यौषधयस्तथा ॥५६ ब्राह्मणस्य तु विक्रयं शुष्कदारु तृणानि च । गन्धद्रव्यैरकालेयतूलमूलतुषाहते ॥६० स्वयं विशीणं विदलं फलानां बदरेङ्गुदे । रज्जुः कार्पासिकं सूत्रं तश्चेदविकृतं भवेत् ।।६१ अशक्तौ भेषजस्यार्थे यज्ञहेतोस्तथैव च । यद्यवश्यं तु विक्रयास्तिला धान्येन तत्समाः ॥६२ अविक्रयाणि विक्रीणन् ब्राह्मणः प्रच्युतः पथः । मार्गे पुनरवस्थाप्यो राज्ञा दण्डन भूयसा ॥६३ प्रमाणानि प्रमाणस्थैः परिपाल्यानि यत्नतः। सीदन्ति हि प्रमाणानि प्रमाणैरव्यवस्थितैः ।।६४
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy