SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ २६२ नारदीयमनुस्मृतिः। पार्श्वकछूतदूतार्तप्रतिरूपकसाहसैः। व्याजेनोपार्जितं यश्च तत्कृष्णं समुदाहृतम् ।।४३ तेन क्रयो विक्रयश्च दानं ग्रहणमेव च । विविधाश्च प्रयुज्यन्ते क्रियाः सम्भोग एव च ॥४४ यथाविधेन द्रव्येण यत्किञ्चित्कुरुते नरः। तथाविधमवाप्नोति स फलं प्रेत्य चेह च ॥४५ तत्पुनादशविधं प्रतिवर्णाश्रयं स्मृतम् । साधारणं स्यात्रिविधं शेषं नवविधं स्मृतम् ।।४६ क्रमागतं प्रीतिदायं प्राप्त च सह भार्यया । अविशेषेण सर्वेषां वर्णानां त्रिविधं धनम् ।।४७ वैशेषिकं धनं शेयं ब्राह्मणस्य त्रिलक्षणम् । प्रतिग्रहेण लब्धं च याज्यतः शिष्यतस्तथा ॥४८ त्रिविधं क्षत्रियस्यापि प्राहुवै शेषिकं धनम् । युद्धोपलब्धं कारश्च दण्डश्च व्यवहारतः ॥४६ वैशेषिकं धनं शेयं वैश्यस्यापि त्रिलक्षणम् । कृषिगोरक्षवाणिज्यं शूद्रस्यभ्यस्त्वनुग्रहात् ॥५० सर्वेषामेव वर्णानामेष धो धनागमः । विपर्ययादधम्यः स्यान्न चेदापद् गरीयसी ।।५१ आपत्स्वनन्तरा वृत्तिर्ब्राह्मणस्य विधीयते । वैश्यवृत्तिस्ततश्चोक्ता न जघन्या कथञ्चन ॥५२ न कथञ्चन कुर्वीत ब्राह्मणः कर्म वार्षलम् । वृषलः कर्म न ब्राह्मं पतनीयौ हि तो तयोः ।।५३
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy