SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ मृणादानं प्रथमं विवादपदम । परतो व्यवहारज्ञः स्वतन्त्रः पितरावृते । जीवतोयस्वतन्त्रः स्याजरयापि समन्वितः ॥३२ तयोरपि पिता श्रेयान्बीजप्राधान्यदर्शनात् । अभावे बीजिनो माता तदभावे तु पूर्वजः ॥३३ स्वतन्त्राः सर्व एवैते परतन्त्रेषु सर्वदा। अनुशिष्ठौ निसर्गे च विक्रये चेश्वरा मताः ॥३४ यद् बालः कुरुते कार्यमस्वतन्त्रस्तथैव च । अकृतं तदिति प्राहुः शास्त्रे शास्त्रविदो जनाः ॥३५ स्वतन्त्रोऽपि हि यत्कार्य कर्यादप्रकृतिं गतः । तदप्यकृतमेवाहुरस्वतन्त्रः स हेतुतः ।।३६ कामक्रोधाभियुक्ताभियव्यसनपीडिताः । रागद्वेषपरीताश्च ज्ञेयास्त्वप्रकृतिं गताः ॥३७ कुले ज्येष्ठस्तथा श्रेष्ठः प्रकृतिस्थस्तु यो भवेत् । तत्कृतं स्यात्कृतं कार्यं नास्वतन्त्रकृतं कृतम् ॥३८ धनमूलाः क्रियाः सर्वा यत्नस्तत्साधने मतः । बर्धनं रक्षणं भोग इति तस्य विधिः क्रमात् ॥३६ तत्युनस्त्रिविधं शेयं शुक्ल शबलमेव च । कृष्णं च तस्य विज्ञेयः प्रभेदः सप्तधा पुनः ।।४० श्रुतशौर्यतपःकन्याशिष्ययाज्यान्वयागतम् । धनं सप्तविधं शुक्लमुदयोऽप्यस्य तद्विधः ।।४१ कुसीदकृषिवाणिज्यशुल्कशिल्पानुवृत्तिभिः । कृतोपकारादाप्त च शबलं समुदाहृतम् ।।४२
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy