SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ नारदीयमनुस्मृतिः। उत्तमा स्वैरिणीनां या पुनर्वामुत्तमा तथा । मृणं तयोः पतिकृतं दद्याद्यस्ते उपाश्नुते ॥२१ स्त्रीकृतान्यप्रमाणानि कार्याण्याहुरनापदि । बिशेषतो गृहक्षेत्रदानाधमनविक्रयाः ।।२२ एतान्येव प्रमाणानि भर्ता यद्यनुमन्यते । पुत्रः पत्युरभावे वा राजा वा पतिपुत्रयोः ।।२३ भ; प्रीतेन यदत्तं स्त्रियै तस्मिन् मृतेऽपि तत् । सा यथाकाममश्नीयाद्दद्याद् वा स्थावराहते ॥२४ तथा दासकृतं कार्यमकृतं परिचक्षते । अन्यत्र स्वामिसन्देशान्न दासः प्रभुरात्मनः ॥२५ पुत्रेण च कृतं कार्य यत्स्यादच्छन्दतः पितुः । तदप्यकृतमेवाहुर्दासः पुत्रश्च तौ समौ ॥२६ अप्राप्तव्यवहारस्तु स्वतन्त्रोऽपि नचर्गभाक् । स्वातन्त्र्यं तु स्मृतं ज्येष्ठे ज्यैष्ठ्यं गुणवयःकृतम् ।।२७ त्रयः स्वतन्त्रा लोकेऽस्मिन् राजाचार्यस्तथैव च । प्रति प्रति च सर्वेषां वर्णानां स्वगृहे गृही ॥२८ अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः। अस्वतन्त्रः स्मृतः शिष्य आचार्ये च स्वतन्त्रता ॥२६ अस्वतन्त्राः स्त्रियः पुत्रा दासाश्च सपरिग्रहाः । स्वतन्त्रस्तत्र तु गृही यस्य स्यात्तत्क्रमागतम् ।।३० गर्भस्थसदृशो ज्ञेय आष्टमाद्वत्सराच्छिशुः । बाल आ षोडशाद्वर्षात्पौगण्डश्चेति शब्द्यते ॥३१
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy