SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ भृणादानं प्रथमं विवादपदम् । शिष्यान्तेवासिदासस्त्रीवैयावृत्त्यकरैश्च यत् । कुटुम्वहेतोरुच्छिन्न वोढव्यं तस्कुटुम्बिना ॥१० नार्वाक् संवत्सरादिशापितरि प्रोषिते सुतः। मृणं दद्यापितृव्ये वा ज्येष्ठे भ्रातर्यथापि वा ॥११ दाप्यः परर्णमेकोऽपि जीवत्स्नधिकृतैः कृतम् । प्रेतेषु तु न तत्पुत्रः परणं दातुमर्हति ॥१२ न स्त्री पतिकृतं दद्यादृणं पुत्रकृतं तथा । अभ्युपेताहते यद्वा सह पत्या कृतं तथा ॥१३ दद्यात्वपुत्रा विधवा नियुक्ता या मुमूर्षुणा । यो वा तद्रिक्थमादद्याद्यतो रिक्थमृगं ततः॥१४ न च भार्याकृतमृगं कथञ्चित्पत्युराभवेत् । आपत्कृतादृते पुंसां कुटुम्बार्थो हि विस्तरः ॥१५ अन्यत्र रजकव्याधगोपशौण्डिकयोषितः। तेषां तत्प्रयया वृत्तिः कुटुम्बं च तदाश्रयम् ॥१६ पुत्रिणी तु समुत्सृज्य पुत्रं स्त्री यान्यमाश्रयेत् । तस्या रिक्थं हरेत्सवं निःस्वायाः पुत्र एव तु ॥१७ या च सप्रधनैव स्त्री सापत्या चान्यमाश्रयेत् । सोऽस्या दद्यादृणं भर्तुरुत्सृजेता तथैव ताम् ।।१८ अधनस्य ह्यपुत्रस्य मृतस्योपैति यः स्त्रियम् । मृणं बोदुः स भजते तदेतस्य धनं स्मृतम् ॥१६ धनस्त्रीहारिपुत्राणामृणभाग यो धनं हरेत् । पुत्रोऽसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः ।।२०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy