________________
व्यवहारदर्शनविधिः। सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् । अब्रुवन विब्रुवन्वापि नरो भवति किल्बिषी ॥७३ पादोऽधर्मस्य कर्तारं पादः साक्षिणमृच्छति । पादः सभासदः सर्वान्पादो गजनमृच्छति ॥७४ राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः । एनो गच्छति कर्तारं निन्दाहों यत्र निन्द्यते ॥७५ अन्धो मत्स्यानिवाश्नाति निरपेक्षः सकण्टकान् । परोक्षमर्थवैकल्याद्भाषते यः सभागतः ॥७६ तस्मात्सभ्यः सभां प्राप्य रागद्वेषविवर्जितः । वचस्तथाविधं ब्रूयाद्यथा न नरकं पतेत् ।।७७ यथा शल्यं भिषग्विद्वानुद्धरेद्यन्त्रयुक्तिभिः। प्राड्विवाकस्तथा शल्यमुद्धरेद् व्यवहारतः ॥७८ यत्र सभ्यो जनः सर्वः साध्वेतदिति मन्यते । स निश्शल्यो विवादः स्यात्सशल्यः स्यादतोऽन्यथा ॥७६ न सा सभा यत्र न सन्ति वृद्धा
न ते वृद्धा ये न वदन्ति धर्मम् । नासौ धर्मो यत्र न सत्यमस्ति
न तत्सत्यं यच्छलेनानुविद्धम् ।।८० ।। इति व्यवहारदर्शन विधिः॥