SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ नारदीयमनुस्मृतिः। असत्याः सत्यसंकाशाः सत्याश्चासत्यदर्शनाः । दृश्यन्ते विविधा भावास्तस्माद्युक्तं परीक्षणम् ॥६२ तलवद् दृश्यते व्योम खद्योतो हव्यवाडिव । न तलं विद्यते व्याम्नि न खद्योते हुताशनः ॥६३ तस्मात्प्रत्यक्षदृष्टोऽपि युक्तमर्थः परीक्षितुम् । परीक्ष्य ज्ञापयन्नर्थान् न धर्मात् परिहीयते ॥६४ एवं पश्यन्सदा राजा व्यवहारान्समाहितः । वितत्येह यशो दीप्तं बध्नस्याप्नोति विष्टपम् ।।६५ नानियुक्तेन वक्तव्यं व्यवहारे कथञ्चन । नियुक्तेन तु वक्तव्यमपक्षपतितं वचः॥६६ युक्तरूपं ब्रुवन्सभ्यो नाप्नुयाद् द्वेषकिल्विषे । ब्रुवाणस्त्वन्यथा सभ्यस्तदेवोभयमाप्नुयात् ॥६७ राजा तु धार्मिकान्सभ्यान्नियुज्यात्सुपरीक्षितान् । व्यवहारधु(रं? रां) वोढुं ये शक्ताः सद्गवा इव ॥६८ धर्मशास्त्रार्थकुशलाः कुलीनाः सत्यवादिनः। समाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः ॥६६ तत्प्रतिष्ठः स्मतो धर्मो धर्ममूलाश्च पार्थिवाः। सह सद्भिरतो राजा व्यवहारान्विशोधयेत् ॥७० शुद्धषु व्यवहारेषु शुद्धिं यान्ति सभासदः । शुद्धिश्च धर्मात्तेषां हि धर्ममेव वदेदतः ॥७१ यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च । हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥७२
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy