________________
ब्यवहारदर्शनविधिः।
२५५ सापदेशं हरन् कालमत्रुवंश्चापि संसदि । उक्त्वा वचो विब्रुवंश्व हीयमानस्य लक्षणम् ।।५१ पलायते य आहूतः प्राप्तश्च विवदेन यः । स दण्ड्यश्च भवेद्राज्ञा हीन एव स वादतः ॥५२ निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत् । लिखितं साक्षिणो वापि पूर्वमावेदितं न चेत् ॥५३ यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः । निर्णिक्तव्यवहाराणां प्रमाणमफलं तथा ।।५४ अभूतमप्यभिहितं प्राप्तकालं परीक्ष्यते । यत्तु प्रमादानोच्येत तद्भूतमपि हीयते ॥५५ तीरितं चानुशिष्टं च यो मन्येत विधर्मणा । द्विगुणं दण्डमास्थाय तत्कार्य पुनरुद्धरेत् ॥५॥ दुईष्टे व्यवहारे तु सभ्यास्तद्दण्डमाप्नुयुः । नहि जातु विना दण्डात्कश्चिन्मार्गेऽवतिष्ठते ।।५७ रागादज्ञानतो वापि लोभाद्वा योऽन्यथा वदेत् । सभ्योऽसभ्यः स विज्ञेय पापं विनयेद् भृशम् ॥५८ किन्तु राज्ञा विशेषण स्वधर्ममनुतिष्ठता। मनुष्ये चित्तवैचित्र्यात्परीक्ष्या साध्वसाधुता ।।५६ पुरुषाः सन्ति ते लोभाये ब्रूयुः कार्यमन्यथा । सन्ति चान्ये दुरात्मानः कूटलेख्यकृतो जनाः ॥६० अतः परीक्ष्यमुभयमतद्राज्ञा विशेषतः । लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः ।।६१