________________
२५४
नारदीयमनुस्मृतिः। अनिवेद्य तु यो राज्ञः सन्दिग्धेऽर्थे प्रवर्तते। प्रसह्य स विनेयः स्यात्स चाप्यर्थो न सिध्यति ॥४० वक्तव्येऽर्थे न तिष्ठन्तमुत्क्रामन्तं च तद्वचः। आसेधयेद्विवादार्थी यावदाह्वानदर्शनम् ॥४१ स्थानासेधः कालकृतः प्रवासात्कर्मणस्तथा । चतुर्विधः स्यादासेधस्तमासिद्धो न लञ्चयेत् ॥४२ नदीसन्तारकान्तारदुर्देशोपप्लवादिषु । आसिद्धस्तं परासेधमुत्क्रामन् नापराध्नुयात् ।।४३ आसेध्यकाल आसिद्ध आसेधं योऽत्तिवर्तते । स विनेयोऽन्यथाकुर्वन्नासेद्धा दण्डभाग्भवेत् ॥४४ निवेष्टुकामो रोगा? यियक्षुर्व्यसने स्थितः । अभियुक्तस्तथान्येन राजकार्योद्यतस्तथा ॥४५ गवां प्रचारे गोपालाः सस्याबन्धे कृषीवलाः । शिल्पिनश्चापि तत्काल आयुधीयाश्च विद्महे ॥४६ अप्राप्तव्यवहारष दूतो दानोन्मुखो व्रती। विषमस्थश्च नासेध्या नचैनानाह्वयेन्नृपः ॥४७ नाभियुक्तोऽभियुञ्जीत तमती(त्या ? वा)र्थमन्तरा। न चाभियुक्तमन्येन विद्धं न व्यद्ध मर्हति ॥४८ यमर्थमभियुञ्जीत न तं विप्रकृति नयेत् । नान्यत् पक्षान्तरं गच्छेद् गच्छन्यूर्वात् स हीयते ।।४६ न च मिथ्याभियुञ्जीत दोषो मिथ्याभियोगिनः । यस्तत्र विनयः प्रोक्तः सोऽभियोक्तारमाव्रजेत् ।।५०