SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ व्यवहारदर्शनविधिः। धर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः । . समाहितमतिः पश्येद् व्यवहाराननुक्रमात् ॥२६ आगमः प्रथमः कार्यो व्यवहारपदं ततः । विवित्सा निर्णयश्चेति दर्शनं स्याजतुर्विधम् ॥३० धर्मशास्त्रार्थशास्त्राभ्यामविरोधेन पार्थिवः । समीक्षमाणो निपुणं व्यवहारगतीर्घनाः ।।३१ यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत् । कक्षे शोणितलेशेन तथा धर्मपदं नयेत् ।।३२ यत्र विप्रतिपत्तिः स्याद् धर्मशास्त्रार्थशास्त्रयोः । अर्थशास्त्रोक्तमुत्सृज्य धर्मशास्त्रोक्तमाचरेत् ॥३३ धर्मशास्त्रविरोधे तु युक्तियुक्तोऽपि धर्मतः। व्यवहारो हि बलवान् धर्मस्तेनापचीयते ॥३४ सूक्ष्मो हि बलवान् धर्मो दुर्विचारस्त्वतीन्द्रियः । अतः प्रत्यक्षमार्गेण व्यवहारगतिं नयेत् ।।३५ यात्यचोरोऽपि चोरत्वं चोरश्चायात्यचोरताम् । अचोरश्चोरतां प्राप्तो माण्डव्यो व्यवहारतः ॥३६ स्त्रीषु रात्रौ बहिर्दामादन्तर्वेश्मन्यरानिषु । व्यवहारः कृतोऽप्येषु पुनः कर्तव्यतामियात् ॥३७ गहनत्वाद्विवादानामसामर्थ्यात्स्मृतेरपि । मृणादिषु हरेत्कालं कामं तत्त्वबुभुत्सया ।।३८ गोभूहिरण्यस्त्रीस्तेयपारुष्यात्ययिकेषु च । साहसेष्वभिशापे च सद्य एव विवादयेत् ॥३६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy